Page images
PDF
EPUB

स्परं विरोधो वैरमनयोरस्तीति तयोः । निसर्गभिन्नास्पदयोरित्यर्थः । प्रायेण हश्विरा मूर्खाः पण्डिताश्च दरिद्रा भवन्ति । एतदनुरोधादिदमुक्तम् । श्रीसरस्वत्यौः । एकसंश्रयदुर्लभमेकत्रवासदुर्लभं संगतं मिलनम् । सहवसतिरित्यर्थः । सतां सजनानां भूतयेऽभिवृद्धयर्थं सदास्तु । अत्र सजनानां प्रशंसाया गम्यमानत्वात् 'प्रशस्तिः' नामाङ्गमुक्तम् । तल्लक्षणमादिभरते - 'देवद्विजनृपादीनां प्रशस्तिः स्यात्प्रशंसनम् ।' इति ।

काळेवंशोद्भवेनेयं रामचन्द्रस्य सूनुना ।
मोरेश्वरेणाल्पधिया निर्मितार्थप्रकाशिका |
नाम टीका सुबोधार्थ बालानां न्यूनमत्र यत् ।
तद्बुधाः क्षन्तुमर्हन्ति हंसक्षीरनयेन मे ॥
स्वतन्त्राः सर्वतन्त्रेषु लोकमण्डितपण्डिताः ।
तेभ्योर्पिता तया लक्ष्मीमाधवौ परितुष्यताम् ॥

इति काळेवंशोत्पन्नेन रामचन्द्रसूनुना मोरेश्वरेण विरचितायां श्रीमद्विक्रमोर्वशीयटीकायामर्थप्रकाशिकायां पश्चमोङ्गः ।

शुभं भूयादध्यापकस्याध्येतुश्च ।

[merged small][merged small][merged small][merged small][ocr errors]

(नेपथ्ये सहजन्याचित्रंलेखयोः प्राषैशिक्याक्षिप्तिका । ) पिअसहिविओअविमणा सहिसहिआं [ हंसी ] वाउला समुल्लवइ सूरकरफंसविअसिअतामरसे सरवरुच्छङ्गे ॥ १ ॥

( ततः प्रविशति सहजन्या चित्रलेखां च । ) चित्रलेखा - ( प्रवेशानन्तरे द्विपदिकया दिशोऽवलोक्य । )

१ प्रियसखीवियोगविमनाः सखीसहिता व्याकुला समुल्लपति । सूर्यकरस्पर्शविकसिततामंरसें सरोवरोत्सङ्गे ।।

1

पिअसहीति । सखीं सखीति वा । उर्वशीविरहदूनचेताः सहजन्योपेता विह्वला कासारोपान्तोपविष्टा चित्रलेखा विलपतीत्यर्थः । सखीं सहजन्यां प्रति सखी चित्रलेखा वदतीत्यर्थ इति वा । रविकरसंपर्कसंजातविकासरक्त सरोजवन्मत्सख्याः कदा नु भर्तृसंदर्शनादिजनितं सुखं संपत्स्यत इति सरोविशेषणध्वनिः । आक्षिप्तिकालक्षणमाह भरतः चश्चत्पुटादितालेन मार्गत्रयविभूषिता । आक्षिप्तिका स्वरपदप्रथिता कथिता बुधैः ॥' इति । पात्रप्रवेश एवैतस्या निवेशः । गाथा छन्दः । तल्लक्षणं च पिङ्गले—' पढमं बारह मत्ता बीए अड्डारहेण संजुत्ता । जह पढमं तेह तीअं दहपश्चविहूसिआ गाहा ॥' इति । दशपञ्चेत्यर्थाच्चतुर्थचरणे पश्चदशमात्राविभूषिता भवतीत्यर्थः । विशेषान्तरं च तत्रैव — 'सत्तगणादहिन्ता जो ण लहू छणे जो विसमो । तह गाहे विइ अद्धे छहुं लहुअं विआणेहु ॥' इति । गणश्चतुष्कलः । प्राकृतपद्ये न जगणः षष्ठः । छ लहुअमिति । एको लघुरेव षष्ठो गणः कार्य इत्यर्थः । विषमे जगणाभावः । अन्ते गुरुश्चात्राप्यावश्यक इति हृदयम् ॥ द्विपदिकया दिशोऽ वलोक्येति । द्विपदिकाख्यगीतिविशेषेण दिगवलोकनं विधायाग्रिमां गाथां पठतीत्यर्थः । दिशोऽवलोक्य द्विपदिकाख्यगीत्या वदतीत्यर्थो वा । तल्लक्षणं चाह भगवान्भरतमुनिः-- 'शुद्धा खण्डा च मात्रा च संपूर्णेति चतुर्विधा । द्विपदी करणाख्येन तालेन परिगीयते ॥ पादे न पञ्चभागोऽन्ते औ स्तः षष्ठद्वितीयकौ । चतुर्भिरीदृशैः पादैः शुद्धा द्विपदिकोध्यते ॥ अर्धान्तेऽन्ये स्वरानाहुः खण्डा स्याच्छुद्धयार्धया । षष्ठेनैकेन गुरुणा मात्राद्विपदिका मता ॥ ज्ञेया

1

सहेअरिदुक्खालिद्धअं सरवरअम्मि सिणिद्धअम् ।
वाहोवग्गिअणअणअं तम्मइ हंसीजुअलअम् ॥ २ ॥

पृ ९९ पं. ३

( अनन्तरे जम्भलिका । )

सेहअरिदुक्खालिद्धअं सरवरअम्मि सिणिद्ध अम् ।

अविरलवाहजलोल्लअं तम्मइ हंसीजुअलअम् || ३ ॥ सहजन्या – सैहि, अत्थि कोवि समागमोवाओ । चित्रलेखा — गोरीचरणराअसंभवं संगममणि वज्जिअ कुदो से

[blocks in formation]

चिन्तादुम्मि अमाणसिआ सहअरिदंसणलालसिआ ।
विअसिअकमलमणोहरए विहरइ हंसी सरवरए ॥ ४ ॥

१ सहचरीदुःखालीढं सरोवरे स्निग्धम् ।

बाष्पापवल्गितनयनं ताम्यति हंसीयुगलम् ॥ २ सहचरीदुःखालीढं सरोवरे स्निग्धम् ।

अविरलबाष्पजलाई ताम्यति हंसीयुगलम् ||

३ सखि, अस्ति कोऽपि समागमोपायः ।

४ गौरीचरणरागसंभवं संगममणि वर्जयित्वा कुतोऽस्याः समागमोपायः । ५ चिन्तादुनमानसा सहचरीदर्शनलालसा |

विकसितकमलमनोहरे विहरति हंसी सरोवरे ॥

शुद्धैव संपूर्णा गुरुणान्तेऽधिकेन तु ॥' इति । हंसीयुगलान्योत्त्या स्वपीडातिशयं वर्णयति – सहअरोति । अपवल्गितमुपप्लुतम् । ताम्यति ग्लानिं भजते ॥ अनन्तरे जम्भलिकेति । जम्भलिका गीतिविशेषः । तथा चाह भरत:'उग्रहो द्विः सकृद्वैकखण्डो द्विशकलोऽथवा । यत्र ध्रुवो द्विराभोगो ध्रुवे मुक्ति: स जम्भकः ।।' इति । एतस्यैव नाम जम्भलिकेति मतमतम् । 'ध्रुवे मुक्तिरहिता पूर्वोकलक्षणलक्षिता सा' इति श्रीमद्भट्टसोमचरणाः' । पुनः ‘सहचरि’ इत्येव पठति तृतीयचरणपरिवर्तनेन । अविरलवाहजलोल्लअं अविरलबाष्पजलाईम् । ओलअमित्या देशी ॥ खण्डधारेति । खण्डधाराख्यो गीतिविशेषः । तल्लक्षणं तु—'यद्गीतं गुणचर्या च रागेण क्रीडनेन च । तालेन सा खण्डधारा याष्टिकेन प्रकाशिता ॥' इति ॥ हंस्यन्यापदेशेनः पुनः स्वावस्थामाह

[ocr errors]

पृ. ९९ पं. १०-

( नेपथ्ये पुरूरवसः प्रावेशिक्याक्षिप्तिका । )

गहणं गइन्दणाहो पिअविरहुम्माअपअलिअविआरो ।
विसइ तरुकुसुमकिसलअभूसिअणिअदेहपब्भारो ।। १ ।।

पृ. ९९पं. १२-

(लोष्टं गृहीत्वा हन्तुं धावन् । अनन्तरे द्विपदिकया दिशोऽवलोक्य । ) हि आहि अपिअदुक्खओ सरवरए धुदपक्खओ वाहोवग्गिअणअणओ तम्मइ हंसजुआणओ || ६ ||

पृ. १०० पं ५-

( इति मूच्छितः पतति । पुनर्द्वपदिकयोत्थाय निःश्वस्य । )
मैइ जाणिअ मिअलोअणि णिसिअरु कोइ हरेइ ।
जाव णु णवतडिसामलि धाराहरु वरिसेइ ॥ ७ ॥
पृ. १०१ पं. ४- ( अनन्तरे चर्चरी । )
जलहर संहर एहु कोपमिआढत्तओ
अविरलधारासारदिसामुहकुन्तओ ।

१ गहनं गजेन्द्रनाथः प्रियाविरहोन्मादप्रकटितविकार: ।
विशति तरुकुसुमकिसलयभूषितनिजदेह प्राग्भारः ॥
२ हृदयाहितप्रियादुःखः सरोवरे धुतपक्षः ।
व्याधाषवल्गितनयनस्ताम्यति हंसयुवा ।।

[ocr errors]

३ मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति । यावन्नु नवतडिच्छयामो धाराधरो वर्षति ॥

४ जलधर संहरात्र कोपमाज्ञप्तः । अविरलधारासारदिशामुखकान्तः ।

[ocr errors]

मावाक्षिप्तिकया प्रवेशं सूचयति - गहणमिति । देहप्राग्भारो देहाभोग: हंसान्यापदेशेन राजा खदुःखातिरेकमाह - हिअअ इति । व्याधापवल्गितनयनः । पक्षे वाष्पापवल्गितनयनः । धुतपक्षः कम्पितपक्षः । पक्षेऽसहायः । ‘पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति त्रिकाण्डी । व्याधत्रासितनेत्रः ॥ मइ जाणिपति- नुर्निश्चये । यावज्जलधरो वर्षति तावन्मृगलोचनामुर्वशीं कोऽपि राक्षसो हरतीति मया निश्चयेन ज्ञातम् । वर्षणोत्तरं तु जलदनिश्चयातु केन नीता क वा गता मत्प्राणप्रिया किमिदानीं करोमि मन्दभाग्य इति । इति क्वापि सकरुणं विचिन्त्येत्युत्तरचूर्णिकासंगति: । 'मइ कोइ' इति च 'मया कोऽपि' इत्यर्थे देशी ॥ अनन्तर इति - चर्चरीसंज्ञो गीतिविशेषः । यदुक्तम्

« PreviousContinue »